|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.20. अध्यायः 020
Mahabharata - Drona Parva - Chapter Topics
सङ्कुलयुद्धवर्णनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-20-0x(4307)(45503)
परिणाम्य निशां तां तु भारद्वाजो महारथः।
उक्त्वा सुबहु राजेन्द्र वचनं वै सुयोधनम्॥ 7-20-1(45504)
विधाय गोप्तॄन्पार्थस्य संशप्तकगणैः सह।
निष्क्रान्ते च तदा पार्थे संशप्तकवधं प्रति॥ 7-20-2(45505)
व्यूढानीकस्ततो द्रोणः पाण्डवानां महाचमूम्।
अभ्ययाद्भरतश्रेष्ठ धर्मराजजिघृक्षया॥ 7-20-3(45506)
व्यूढां दृष्ट्वा सुपर्णेन भारद्वाजस्य तां चमूम्।
व्यूहेन मण्डलार्धेन प्रत्यव्यूहद्युधिष्ठिरः॥ 7-20-4(45507)
मुखं त्वासीत्सुपर्णस्य भारद्वाजो महारथः।
शिरो दुर्योधनो राजा सोदर्यैः सानुगैर्वृतः॥ 7-20-5(45508)
चक्षुषी कृतवर्माऽऽसीद्गौतमश्चास्यतां वरः॥ 7-20-6(45509)
भूतशर्मा क्षेमशर्मा करकाक्षश्च वीर्यवान्।
कलिङ्गाः सिंहलाः प्राच्याः शूरा भीरा दशेरकाः॥ 7-20-7(45510)
शका यवनकाम्भोजास्तथा हंसपथाश्च ये।
ग्रीवायां शूरसेनाश्च दरन्दा मद्रकेकयाः।
गजाश्वरथपत्त्योघास्तस्थुः परमदंशिताः॥ 7-20-8(45511)
भूरिश्रवास्तथा शल्यः सोमदत्तश्च बाह्लिकः।
अक्षौहिण्या वृता वीरा दक्षिणं पार्श्वमास्थिताः॥ 7-20-9(45512)
विन्दानुविन्दावावन्त्यौ काम्भोजश्च सुदक्षिणः।
वामं पार्श्वं समाश्रित्य द्रोणपुत्राग्रतः स्थिताः॥ 7-20-10(45513)
पृष्ठे कलिङ्गाः साम्बष्ठा मागधाः पौण्ड्रमद्रकाः।
गान्धाराः शकुनाः प्राच्याः पार्वतीया वसातयः॥ 7-20-11(45514)
पुच्छे वैकर्तनः कर्णः सपुत्रज्ञातिबान्धवः।
महत्या सेनया तस्थौ नानाजनपदोत्थया॥ 7-20-12(45515)
जयद्रथो भीमरथः सम्पातिर्ऋषभो जयः।
भूमिञ्जयो वृषक्राथो नैषधश्च महाबलः॥ 7-20-13(45516)
वृता बलेन महता ब्रह्मलोकपरिष्कृताः।
व्यूहस्योरसि ते राजन्स्थिता युद्धविशारदाः॥ 7-20-14(45517)
द्रोणेन विहितो व्यूहः पदात्यश्वरथद्विपैः।
वातोद्धूतार्णवाकारः प्रनृत्त इव लक्ष्यते॥ 7-20-15(45518)
तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः।
सविद्युत्स्तनिता मेघाः सर्वदिग्भ्यः इवोष्णगे॥ 7-20-16(45519)
तस्य प्राग्ज्योतिषो मध्ये विधिवत्कल्पितं गजम्।
आस्थितः शुशुभे राजन्नंशुमानुदये यथा॥ 7-20-17(45520)
माल्यदामवता राजञ्श्वेतच्छत्रेण धार्यता।
कृत्तिकायोगयुक्तेन पौर्णमास्यामिवेन्दुना॥ 7-20-18(45521)
नीलाञ्जनचयप्रख्यो मदान्धो द्विरदो बभौ।
अतिवृष्टो महामेघैर्यथा स्यात्पर्वतो महान्॥ 7-20-19(45522)
नानानृपतिभिर्वीरै र्विविधायुधभूषणैः।
समन्वितः पार्वतीयैः शक्रो देवगणैरिव॥ 7-20-20(45523)
ततो युधिष्ठिरः प्रेक्ष्य व्यूहं तमतिमानुषम्।
अजय्यमरिभिः सङ्ख्ये पार्षतं वाक्यमब्रवीत्॥ 7-20-21(45524)
ब्राह्मणस्य वशं नाहमियामद्य यथा प्रभो।
पारावतसवर्णाश्व तथा नीतिर्विधीयताम्॥ 7-20-22(45525)
धृष्टद्युम्न उवाच। 7-20-23x(4308)
द्रोणस्य यतमानस्य वशं नैष्यसि सुव्रत।
अहमावारयिष्यामि द्रोणमद्य सहानुगम्॥ 7-20-23(45526)
मयि जीवति कौरव्य नोद्वेगं कर्तुमर्हसि।
न हि शक्तो रणे द्रोणो विजेतुं मां कथञ्चन॥ 7-20-24(45527)
सञ्जय उवाच। 7-20-25x(4309)
एवमुक्त्वा किरन्बाणान्द्रुपदस्य सुतो बली।
पारावतसवर्णाश्वः स्वयं द्रोणमुपाद्रवत्॥ 7-20-25(45528)
अनिष्टदर्शनं दृष्ट्वा धृष्टद्युम्नमवस्थितम्।
क्षणेनैवाभवद्द्रोणो नातिहृष्टमना इव॥ 7-20-26(45529)
`स हि जातो महाराज द्रोणस्य निधनं प्रति॥ 7-20-27(45530)
मर्त्यधर्मतया तस्माद्भारद्वाजो व्यमुह्यत।
नाशकत्तत्र तत्किञ्चिदनीकं प्रतिवीक्षितुम्॥ 7-20-28(45531)
ततः किरन्निषूंस्तीक्ष्णान्द्रुपदस्य वरूथिनीम्।
भराद्वाजो ययौ तूर्णं पार्षतं वर्जयन्युधि।
द्रुपदस्य महत्सैन्यं दारयामास ब्राह्मणः'॥ 7-20-29(45532)
तं तु सम्प्रेक्ष्य पुत्रस्ते दुर्मुखः शत्रुकर्षणः।
प्रियं चिकीर्षुर्द्रोणस्य धृष्टद्युम्नमवारयत्॥ 7-20-30(45533)
स सम्प्रहारस्तुमुलः सुघोरः समपद्यत।
पार्षतस्य च शूरस्य दुर्मुखस्य च भारत॥ 7-20-31(45534)
पार्षतः शरजालेन क्षिप्रं प्रच्छाद्य दुर्मुखम्।
भारद्वाजं शरौघेण महता समवारयत्॥ 7-20-32(45535)
द्रोणावारितं दृष्ट्वा भृशायस्तस्तवात्मजः।
नानालिङ्गैः शरव्रातैः पार्षतं सममोहयत्॥ 7-20-33(45536)
तयोर्विषक्तयोः सङ्ख्ये पाञ्चाल्यकुरुमुख्ययोः।
द्रोणो यौधिष्ठिरं सैन्यं बहुधा व्यधमच्छरैः॥ 7-20-34(45537)
अनिलेन यथाऽभ्राणि विच्छिन्नानि समन्ततः।
तथा पार्थस्य सैन्यानि विच्छिन्नानि क्वचित्क्वचित्॥ 7-20-35(45538)
मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम्।
तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत॥ 7-20-36(45539)
`नैव खं न दिशो भूमिर्बभासे न च भास्करः'।
नैव स्वे न परे राजन्नाज्ञायन्त परस्परम्।
अनुमानेन संज्ञाभिर्युद्धं तत्समवर्तत॥ 7-20-37(45540)
चूडामणिषु निष्केषु भूषणेष्वपि वर्मसु।
तेषामादित्यवर्णाभा रश्मयः प्रचकाशिरे॥ 7-20-38(45541)
तत्प्रकीर्णपताकानां रथवारणवाजिनाम्।
बलाकाशबलाभ्रामं ददृशे रूपमाहवे॥ 7-20-39(45542)
नरानेव नरा जघ्नरुदग्राश्च हया हयान्।
रथांश्च रथिनो जघ्नुर्वारणा वरवारणान्॥ 7-20-40(45543)
समुच्छ्रितपताकानां गजानां परमद्विपैः।
क्षणेन तुमुलो घोरः सङ्ग्रामः समपद्यत॥ 7-20-41(45544)
तेषां संसक्तगात्राणां कर्षतामितरेतरम्।
दन्तसङ्घातसङ्घर्षात्सधूमोऽग्निरजायत॥ 7-20-42(45545)
विप्रकीर्णपताकास्ते विषाणजनिताग्नयः।
बभूवुः खं समासाद्य सविद्युत इवाम्बुदाः॥ 7-20-43(45546)
विक्षिपद्भिर्नदद्भिश्च निपतद्भिश्च वारणैः।
सम्बभूव मही कीर्णा मेघैर्द्यौरिव वार्षिकी॥ 7-20-44(45547)
तेषामाहन्यमानानां बाणतोमरऋष्टिभिः।
वारणानां रवो जज्ञे मेघानामिव सम्पुवे॥ 7-20-45(45548)
तोमराभिहताः केचिद्बाणैश्च परमद्विपाः।
वित्रेसुः सर्वनागानां शब्दमेवापरेऽसृजन्॥ 7-20-46(45549)
विषाणाभिहताश्चापि केचित्तत्र गजा गजैः।
चक्रुरार्तस्वनं घोरमुत्पातजलदा इव॥ 7-20-47(45550)
प्रतीपाः क्रियमाणाश्च वारणा वरवारणैः।
उन्मथ्य पुनराजग्मुः प्रेरिताः परमाङ्कुशैः॥ 7-20-48(45551)
महामात्रैर्महामात्रास्ताडिताः शरतोमरैः।
गजेभ्यः पृथिवीं जग्मुर्मुक्तप्रहरणाङ्कुशाः॥ 7-20-49(45552)
निर्मनुष्याश्च मातङ्गा विनदन्तस्ततस्ततः।
छिन्नाभ्राणीव सम्पेतुः सम्प्रविश्य परस्परम्॥ 7-20-50(45553)
हतान्परिवहन्तश्च पतितान्पतितायुधान्।
दिशो जग्मुर्महानागाः केचिदेकचरा इव॥ 7-20-51(45554)
ताडितास्ताड्यमानाश्च तोमरर्ष्टिपरश्वथैः।
पेतुरार्तस्वनं कृत्वा तदा विशसने गजाः॥ 7-20-52(45555)
तेषां शैलोपमैः कायैर्निपतद्भिः समन्ततः।
आहता सहसा भूमिश्चकम्पे च ननाद च॥ 7-20-53(45556)
सादितैः सगजारोहैः सपताकैः समन्ततः।
मातङ्गैः शुशुभे भूमिर्विकीर्णैरिव पर्वतैः॥ 7-20-54(45557)
गजस्थाश्च महामात्रा निर्भिन्नहृदया रणे।
रथिभिः पातिता भल्लैर्विकीर्णाङ्कुशतोमराः॥ 7-20-55(45558)
क्रौञ्चवद्विनदन्तोऽन्ये नाराचाभिहता गजाः।
परान्स्वांश्चापि मृद्गन्तः परिपेतुर्दिशो दश॥ 7-20-56(45559)
गजाश्वरथयोधानां शरीरौघसमावृता।
बभूव पृथिवी राजन्मांसशोणितकर्दमा॥ 7-20-57(45560)
प्रमथ्य च विषाणाग्रैः समुत्क्षिप्ताश्च वारणैः।
सचक्राश्च विचक्राश्च रथैरेव महारथाः॥ 7-20-58(45561)
रथाश्च रथिभिर्हीना निर्मनुष्याश्च वाजिनः।
हतारोहाश्च मातङ्गा दिशो जग्मुर्भयातुराः॥ 7-20-59(45562)
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा।
इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किञ्चन॥ 7-20-60(45563)
आगुल्फेभ्योऽवसीदन्ते नरा लोहितकर्दमैः।
दीप्यमानैः परिक्षिप्ता दावैरिव महाद्रुमाः॥ 7-20-61(45564)
शोणितैः सिच्यमानानि वस्त्राणि कवचानि च।
छत्राणि च पताकाश्च सर्वं रक्तमदृश्यत॥ 7-20-62(45565)
हयौघाश्च रथौघाश्च नरौघाश्च निपातिताः।
संक्षुण्णाः पुनरावृत्य बहुधा रथनेमिभिः॥ 7-20-63(45566)
सगजौघमहावेगः परासुनरशैवलः।
रथौघतुमुलावर्तः प्रबभौ सैन्यसागरः॥ 7-20-64(45567)
तं वाहनमहानौभिर्योधा जयधनैषिणः।
अवगाह्याथ मज्जन्तो नैव मोहं प्रचक्रिरे॥ 7-20-65(45568)
शरवर्षाभिवृष्टेषु योधेष्वञ्चितलक्ष्मसु।
न तेष्वचित्ततां लेभे कश्चिदाहतलक्षणः॥ 7-20-66(45569)
वर्तमाने तथा युद्धे घोररूपे भयङ्करे।
मोहयित्वा परान्द्रोणो युधिष्ठिरमुपाद्रवत्॥ ॥ 7-20-67(45570)
इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धे विंशोऽध्यायः॥ 20 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-20-16 उष्णगे घर्मात्यये॥ 5-20-18 पौर्णमास्यां कृत्तिकायोगयुक्तेन इन्दुना। शारदपूर्णचन्द्रेणेत्यर्थः॥ 5-20-26 अनिष्टदर्शनं स्वमृत्युहेतुत्वात्॥ 5-20-33 भृशायस्तोऽतिप्रयत्नवान्॥ 5-20-51 एकचराः द्विपान्तरदर्शनासहाः॥ 5-20-66 अचित्ततां मोहम्॥ 5-20-20 विंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|